वांछित मन्त्र चुनें

म॒न्द्रं होता॑रमु॒शिजो॒ नमो॑भि॒: प्राञ्चं॑ य॒ज्ञं ने॒तार॑मध्व॒राणा॑म् । वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥

अंग्रेज़ी लिप्यंतरण

mandraṁ hotāram uśijo namobhiḥ prāñcaṁ yajñaṁ netāram adhvarāṇām | viśām akṛṇvann aratim pāvakaṁ havyavāhaṁ dadhato mānuṣeṣu ||

पद पाठ

म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । नमः॑ऽभिः । प्राञ्च॑म् । य॒ज्ञम् । ने॒तार॑म् । अ॒ध्व॒राणा॑म् । वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒ऽवाह॑म् । दध॑तः । मानु॑षेषु ॥ १०.४६.४

ऋग्वेद » मण्डल:10» सूक्त:46» मन्त्र:4 | अष्टक:8» अध्याय:1» वर्ग:1» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मानुषेषु दधतः-उशिजः) मनुष्यों के मध्य में जो अपने अन्दर धारण करने के हेतु कामना रखनेवाले (मन्द्रं होतारम्) हर्षित करनेवाले तथा स्वीकार करनेवाले (यज्ञम्) सङ्गमनीय (अध्वराणां नेतारम्) अध्यात्ममार्ग में रमण करनेवालों के नेता (विशाम्-अरतिम्) मनुष्यादि प्रजाओं के स्वामी (पावकम्) पवित्रकारक (हव्यवाहम्) स्तुतिप्रार्थनोपहार के स्वीकार करनेवाले परमात्मा को (प्राञ्चम्-अकृण्वन्) साक्षात् करते हैं ॥४॥
भावार्थभाषाः - मनुष्यों में जो परमात्मा को अपने अन्दर धारण करने के अत्यन्त इच्छुक होते हैं और पवित्र आचरणवाले तथा श्रद्धा से उपासना करते हैं, वे ही प्राणिमात्र के स्वामी हर्षित करनेवाले परमात्मा का साक्षात्कार करते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मानुषेषु दधतः-उशिजः) मनुष्येषु मनुष्याणां मध्ये ये दधानाः स्वान्तरे धारणहेतवे कामयमानाः स्तोतारः (मन्द्रं होतारम्) हर्षयितारमादातारं स्वीकर्तारम् (यज्ञम्) यजनीयं सङ्गमनीयम् (अध्वराणां नेतारम्) अध्यात्ममार्गे रममाणानां नेतारम् (विशाम्-अरतिम्) समस्तमनुष्यादिप्रजानां स्वामिनम् (पावकम्) पवित्रकारकम् (हव्यवाहम्) स्तुतिप्रार्थनोपहारस्य स्वीकर्तारं परमात्मानम् (प्राञ्चम्-अकृण्वन्) साक्षात् कुर्वन्ति ॥४॥